CBSE Sample Question Papers for Class 10 Sanskrit 2020 Board Exam

CBSE Sample Question Papers for Class 10 Sanskrit 2020

आदर्श-प्रश्न-पत्रम् – 2019-20
कक्षा : दशमी
संस्कृतम् (122)

समयः – होरात्रयम्                                                                                                   सम्पूर्णाङ्काः – 80

सामान्यनिर्देशाः –

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  • अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति ।
  • अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम् ।

प्रश्नपत्रस्वरूपम् –

खण्ड : क   : अपठित-अवबोधनम्    10 अङ्काः
खण्ड: – ख  : रचनात्मककार्यम्         15 अङ्काः
खण्ड : ग    : अनुप्रयुक्तव्याकरणम्    25 अङ्काः
खण्ड : घ    : पठित-अवबोधनम्        30 अङ्काः

(i) अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
(ii) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
(iii) प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया ।
(iv) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
(v) प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

खण्डः – क(10 अङ्काः)
अपठित – अवबोधनम्

प्रश्न: 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –  [10] 

ये जनाः दृढप्रतिज्ञाः भवन्ति तेषां कृते तेषां व्रतमेव सर्वप्रमुखं भवति। संसारे ईदृशाः जनाः अभवन् ये जीवनस्य अन्तिमे क्षणेऽपि सत्यस्य आश्रयं नात्यजन्। स्वात्मनः विपर्यये किञ्चिद् कर्म अपि नाकुर्वन्। अनेकासु विपत्तिषु अपि नृपः हरिश्चन्द्रः सत्यस्याश्रयं नात्यजत्। महाराणा प्रतापः आजीवनं वने – वनेऽभ्रमत्। स्वभार्यां बालौ च बुभुक्षया निष्प्राणान्निव पश्यन्नपि सः तेषां वार्ता न अमन्यत। महाराणा प्रतापस्य पत्नी पुत्रौ च तस्मै पराधीनं जीवनं जीवितुम् अकथयन्। आधुनिके काले महर्षिः दयानन्दोऽपि सत्यस्य पालने वेदप्रचारे च स्वजीवनस्य बलिदानम् अकरोत् परं सत्यस्य मार्ग नात्यजत्। एवमेव पुण्यभूमिभारते अनेके ईदृशाः महापुरुषाः अजायन्त, ये स्वजन्मना इमां भूमिं पवित्राम् अकुर्वन्। अद्यापि तेषां चरणचिह्नानि मानवान् सत्याचरणं प्रति प्रेरयन्ति।

(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम् -अवबोधनात्मकप्रश्नः)  [2]
(i) महर्षिः दयानन्दः किं बलिदानम् अकरोत्?
(ii) कः नृपः सत्यस्य आश्रयं नात्यजत्?
(iii) कः आजीवनं वने-वनेऽभ्रमत?

(ब) पूर्णवाक्येन लिखत – (केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम् –अवबोधनात्मकप्रश्नः)  [4]
(i) दृढप्रतिज्ञ-जनानां कृते किं सर्वप्रमुखं भवति?
(ii) अद्यापि किं मानवान् सत्याचरणं प्रति प्रेरयन्ति?
(iii) के महाराणा- प्रतापं पराधीनं जीवनं जीवितुम् अकथयन्?

(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।  [1]
(द्वित्रिशब्दात्मक-वाक्यम् – चिन्तनात्मकप्रश्नः)

(द) यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्) (एकपदेन – ज्ञानात्मकप्रश्नः)  [3]

(i) ‘अकरोत्’ इत्यस्याः क्रियायाः कर्तृपदं किम्?
(क) महर्षि दयानन्दः
(ख) महाराणा (ग) हरिश्चन्द्रः

(ii) ‘नृपः हरिश्चन्द्रः’ अनयोः पदयोः विशेषणं किम्?
(क) हरिश्चन्द्रः
(ख) नृपः
(ग) नृपः हरिश्चन्द्रः

(iii) ‘पत्नीम्’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
(क) नृपः
(ख) भार्याम्
(ग) वार्ताम्

(iv) अनुच्छेदे ‘मिथ्यायाः’ पदस्य कः विपर्ययः आगतः?
(क) सत्यस्य
(ख) मार्गम्
(ग) असत्यस्य

Practice MCQ Questions for Class 10 Maths With Answers for 2020 Board Exams.

खण्ड: – ख (15 अङ्काः)
रचनात्मककार्यम्

प्रश्न: 2.
स्वमित्रं एकादश-कक्षायां संस्कृतं पठितुं प्रेरयितुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः
उत्तरपुस्तिकायां लिखतु । (चिन्तनात्मकः प्रश्नः)   [5] 

छात्रावासः
(i) ——–
दिनाङ्कः ————
प्रिय आदित्य,
(ii) ————– ।

अत्र कुशलं तत्रास्तु । तव (iii) —————- ज्ञातं यत् त्वम् एकादश-कक्षायां संस्कृतभाषां पठितुम् इच्छसि। एतत् ज्ञात्वा अहम् अति प्रसन्नः (iv) ————– यतः संस्कृतम् पठित्वा वयं स्वदेशस्य गौरवम् अनुभवितुं (v) ———– । इयं देवभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वैज्ञानिकी च अस्ति । विश्वस्य (vi) ———– भाषासु भारतीयभाषासु च (vii) —————– शब्दाः प्राप्यन्ते। किं त्वं जानासि यत् वेदाः, रामायणम्, महाभारतम्, उपनिषदः, पञ्चतन्त्रहितोपदेशादयः (viii)———— संस्कृते एव लिखिताः सन्ति? अतः त्वं सर्वैः (ix) ——— सह संस्कृतम् अपि परिश्रमेण पठ। अवकाशेषु मम गृहम् आगच्छ। मातापितृभ्यां मम प्रणामान् कथय ।

तव (x) ——–
वैभवः।

मञ्जूषा – अभवम्, नमोनमः, मित्रम्, शक्नुमः, विषयैः, देहरादूनतः, संस्कृतस्य, अनेकासु, पत्रेण, ग्रन्थाः ।

प्रश्न: 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत – (चिन्तनात्मकप्रश्नः)  [5]
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डुः, गृञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति, कुक्कुरः ।
CBSE Sample Question Papers for Class 10 Sanskrit 2020

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत – (रचनात्मकानि पञ्चवाक्यानि-चिन्तनात्मकप्रश्नः)
“स्वच्छभारत-अभियानम्”
मञ्जूषा – स्वच्छतायाः, प्रधानमन्त्री नरेन्द्रमोदी, अवकरपात्रेषु, उद्घाटनम्, इतस्ततः, उद्यानेषु, मार्गेषु, क्षिपन्ति,

स्वच्छताभियानम्, अवकराणि, अस्माकं कर्त्तव्यम्, वातावरणं शुद्धम्, स्वस्थाः, सामाजिककार्यम् ।

2020 Board Exam: Download CBSE Sample Papers for Class 10 Bundle PDF

CBSE Sample Papers for Class 10 Maths CBSE Sample Papers for Class 10 Standard
CBSE Sample Papers for Class 10 English CBSE Sample Papers for Class 10 Sanskrit
CBSE Sample Papers for Class 10 Social Science Formula Handbook for Class 10 Maths and Science

प्रश्न: 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूध लिखत – (केवलं वाक्यपञ्चकम्) (पञ्चवाक्यानि – रचनात्मक चिन्तनात्मकप्रश्नः)  [5]

  1. 1. माता खाना पकाती है।                 – Mother cooks food.
  2. 2. हम सब संस्कृत पढते हैं।              – All of us study Sanskrit.
  3. कल विद्यालय का अवकाश रहेगा       – Tomorrow the school will remain closed.
  4. कल तुम कहाँ थे?                            – Where were you yesterday?
  5. तुम सब कलम से लिखो।                  – All of you write with pen.
  6. बच्चा कुत्ते से डरता है।                     – The child is scared of dog.
  7. 7. क्या मैं अन्दर आऊँ?                    – May I come in?

खण्ड: ग (25 अङ्काः )
अनुप्रयुक्तव्याकरणम्

प्रश्न: 5.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्)
(चतुर्वाक्यात्मकः ज्ञानात्मकः प्रश्नः)  [4]
(i) धूमं मुञ्चति शतशकटीयानम्।
(ii) किं नामधेया युवयोः + जननी ?
(iii) गावश्च गोभिः तुरङ्गास्तुरङ्गैः।
(iv) तथा वाचि भवेत् + यदि
(v) कः पुनरन्धो राज्ञः + विरुद्धः इति आर्येणावगम्यते?

प्रश्न: 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत –  [4]
(केवलं प्रश्नचतुष्टयम्) (चतुर्वाक्यात्मकः ज्ञानात्मकः प्रश्नः)

(i) वाष्पयानमाला संधावति ।
(क) वाष्पयानेषु माला
(ख) वाष्पयानेभ्यः माला
(ग) वाष्पयानानां माला

(ii) किं द्वयोरप्येकमेव प्रतिवचनम्
(क) वचने वचने प्रति
(ख) वचनं वचनं प्रति
(ग) वचनात् वचनात् प्रति

(iii) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(क) राज्ञः पुत्रः
(ख) राज्ञे पुत्रः
(ग) राज्ञा पुत्रः

(iv) तस्मिन्नेव काले व्याघ्रचित्रको अपि जलपानाय आगतौ ।
(क) व्याघ्रः चित्रकौ च
(ख) व्याघ्रौ चित्रकौ च
(ग) व्याघ्रः चित्रकः च

(v) गुणं न वेत्ति निर्गताः गुणाः यस्मात् सः
(क) निर्गुणः
(ख) निर्गतगुणाः
(ग) निर्गुणम्

प्रश्न: 7.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत –   [4]
(केवलं प्रश्नचतुष्टयम्) (चतुर्वाक्यात्मकः ज्ञानात्मकः प्रश्नः)

(i) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(क) बुद्धिमान् + ङीप्
(ख) बुद्धिमत् + टाप्
(ग) बुद्धिमत् + ङीप्

(ii) जननी तुल्य-वत्सला
(क) वत्सल + टाप्
(ख) वत्सल + ङीप्
(ग) वत्सलः + टाप

(iii) सर्वेषां मत्कृते महत्त्वं विद्यते।
(क) महत् + त्त्व
(ख) महत् + त्व
(ग) महत् + त्वम्

(iv) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णु + तल्
(क) सहिष्णुतल्
(ख) सहिष्णुत्वम्
(ग) सहिष्णुता

(v) विद्वांस एव लोकेऽस्मिन् चक्षुष + मतुपू प्रकीर्तिताः।
(क) चक्षुष्मान्
(ख) चक्षुष्मानाः
(ग) चक्षुष्मन्तः

प्रश्न: 8.
मञ्जूषायां प्रदत्तैः पदैः वाच्यपरिवर्तनं कृत्वा अधोलिखितं संवादं पुनः लिखत – (ज्ञानात्मकः प्रश्नः)  [3]
साक्षी – किं (१) ——— पुस्तकस्य पदानुशीलनीम् अपि पश्यसि ?
संस्कृतिः – आम् ! मया पदानुशीलनी अपि (२) ———- ?
साक्षी – किम् अधुना त्वया (३) ———– लिख्यन्ते?
संस्कृतिः – आम्, अहम् अधुना शब्दरूपाणि लिखामि ।
साक्षी – उत्तमम् ! स्मरणम् अपि करोतु ।

मञ्जूषा – शब्दरूपाणि, दृश्यते, त्वम् ।

अथवा

अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत (केवलं त्रयाणाम्) –
(क) आञ्जनेयः गीतं लिखति ।
(ख) मया कार्याणि क्रियन्ते ।
(ग) यूयं फलानि नयथ ।
(घ) बालकेन दुग्धं पीयते ।
(ङ) भक्तौ देवं नमतः।

प्रश्न: 9.
कालबोधकशब्दैः अधोलिखित- दिनचर्यां वा पूरयत – (केवलं प्रश्नचतुष्टयम्) (चतुर्वाक्यात्मकः स्मृत्यात्मकः प्रश्नः  [4]
(क) हार्दिकः सायं 4:30 वादने ————– -क्रीडति ।
(ख) वैभवः प्रातः 6:15 वादने ————- — जागर्ति ।
(ग) अहं प्रातः 7:00 वादने ————– पाठशालां गच्छामि।
(घ) सायं 7:30 वादने ———- कपिलः पूजां करोति ।
(ङ) केशवः रात्रौ 8:45 वादने ———
 भोजनं करोति ।

प्रश्न: 10.
मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत – (केवलं प्रश्नषट्कम्) | (अवबोधनात्मकः प्रश्नः)  [3]
(क) विद्वांसः ———- अत्र आगमिष्यन्ति।
(ख) इदानीं ————- वर्षाकालः अस्ति।
(ग) समुद्रे वृष्टिः —————– भवति ।
(घ) कुक्कुरः ——— ——- शब्दं करोति ।
(ङ) भवान् पुस्तकं ————– क्रीतवान् ?
(च) ——- कुत्रापि मा गच्छ ।
(छ) अहम् ——— तत्र गन्तुम् इच्छामि।
(ज) वानरः ——- कूर्दति ।

मञ्जूषा – अधुना, कुतः, अपि, वृथा, श्वः, इतस्ततः, उच्चैः, तत्र ।

प्रश्न: 11.
अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धं पदं विकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नत्रयम्) (अवबोधनात्मकः प्रश्नः)  [4]
(क) दिव्यानन्दः फलं खादामि ।       (खादसि / खादन्ति / खादति)
(ख) राजेन्द्रः पाठं पाठयन्ति ?          (पाठयति / पाठयामि/ पाठयसि)
(ग) मुकेशः उन्नतम् अस्ति।             
(उन्नता / उन्नतः / उन्नतिः)
(घ) सुरेशमहोदया श्वः न आगच्छत् । (आगमिष्यति / आगच्छति/ आगच्छन्)

खण्डः – घ (30 अङ्काः)
पठित-अवबोधनम्

प्रश्न: 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –  [5]
कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलिवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूवा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारं यत्नमकरोत्, तथापि वृषः नोत्थितः।

भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन् । सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् –“अयि शुभे! किमेवं रोदिषि? उच्यताम् इति ।

अ. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम्-अवबोधनात्मकप्रश्नः)  [1]
(क) कः क्षेत्रकर्षणं कुर्वन्नासीत् ?
(ख) कः हलमूवा गन्तुमशक्तः क्षेत्रे पपात ?
(ग) कः क्रुद्धः आसीत् ?

ब. पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नमेकम्) (निर्देशस्पष्टात्मकपदम् -अवबोधनात्मकप्रश्नः)  [1]
(क) सुराधिपः किम् अपृच्छत् ?
(ख) मातुः सुरभेः नेत्राभ्यामश्रूणि किमर्थम् आविरासन्?

स. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत – (केवलं प्रश्नत्रयम्) (एकपदेन – ज्ञानात्मकप्रश्नः)  [3]

(i) ‘अनेकवारम्’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) नुद्यमानः
(ख) बहुवारम्
(ग) हलमुड्वा

(ii) ‘अपृच्छत्’ इति पदस्य कर्तृपदं किम्?
(क) सुराधिपः
(ख) वृषः
(ग) कृषकः

(iii) ‘वृषभम्’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
(क) क्षेत्रकर्षणम्
(ख) गन्तुम्
(ग) दुर्बलम्

(iv) ‘कृषीवलः’ इति पदस्य किं क्रियापदं गद्यांशे प्रयुक्तम्?
(क) अवर्तत
(ख) अकरोत्
(ग) पपात

प्रश्न: 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –  [5]
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥

अ. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम् -अवबोधनात्मकप्रश्नः)  [1]
(क) मनुष्यः आत्मने कियन्ति सुखानि इच्छति?
(ख) नरः केभ्यः अहितं कर्म न कुर्यात्?
(ग) कीदृशं कर्म न करणीयम्?

ब. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नमेकम्) (निर्देशस्पष्टात्मकपदम्-अवबोधनात्मकप्रश्नः)  [1]
(क) कः परेभ्यः अहितं कर्म न कुर्यात् ?
(ख) परोपकारेण कस्य श्रेयः भवति?

स. निर्देशानुसारम् उत्तरत – (केवलं प्रश्नत्रयम्) (एकपदेन – ज्ञानात्मकप्रश्नः)  [3]

(i) “यः” इति कर्तृपदस्य क्रियापदं किम्?
(अ) इच्छति
(ब) कुर्यात्
(स) अन्यत् किमपि

(ii) “अहितं कर्म” अनयो: पदयोः किं विशेष्यपदम्?
(अ) अहितम्
(ब) कर्म
(स) अहितं कर्म

(iii) “कल्याणम्” इत्यस्य पदस्य क: पर्याय: श्लोके प्रयुक्तम् ?
(अ) श्रेयः
(ब) अहितम्
(स) कर्म

(iv) ” निजेभ्यः” इत्यस्य किं विलोमपदं श्लोके प्रयुक्तम् ?
(अ) आत्मनः
(ब) परेभ्यः
(स) श्रेयः

प्रश्न: 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –  [5]

काकः – रे परभृत् ! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट काकः ।

गजः – समीपतः एवागच्छन् अरे ! अरे ! सर्वां वार्ता शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च । सिंहः वा स्यात् अथवा अन्यः कोऽपि । वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि । किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी ।अतः अहमेव योग्यः वनराजपदाय ।

वानरः – अरे ! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।) (गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्य वृक्षमारोहति । एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)

सिंहः – भोः गज ! मामप्येवमेवातुदन् एते वानराः ।

अ. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम् -अवबोधनात्मकप्रश्नः)  [1]
(क) काकः पिकं किं कथयित्वा सम्बोधयति ?
(ख) कः आत्मानं पक्षिसम्राट् मन्यते ?
(ग) वानरः कुत्र आरोहति ?

ब. पूर्णवाक्येन उत्तरत । (केवलं प्रश्नमेकम्) (निर्देशस्पष्टात्मकपदम् -अवबोधनात्मकप्रश्नः)  [1]
(क) काकः किं वदति ?
(ख) सिंहः किं वदति ?

स. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -(केवलं प्रश्नत्रयम्) (एकपदेन – ज्ञानात्मकप्रश्नः)  [3]

(i) नाट्यांशे ‘आरोहति’ इति क्रियायाः कर्तृपदं किम्?
(क) वानरः
(ख) सिंहः
(ग) गजः

(ii) ‘करुणापरः काकः’ इत्यत्र विशेष्यं पदं किम्?
(क) काकः
(ख) करुणापरकाकः
(ग) करुणापरः

(iii) नाट्यांशे ‘दुर्बलम्’ इत्यस्य किं विलोमपदं प्रयुक्तम्?
(क) विशालकायः
(ख) बलशाली
(ग) करुणापरः

(iv) ‘वानराः’ इति कर्तृपदस्य क्रियापदं गद्यांशात् चित्वा लिखत ।
(क) पालयामि
(ख) आरोहति
(ग) अतुदन्

प्रश्न: 15.
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) एकवाक्यात्मकम् – ज्ञानात्मकप्रश्नः)  [4]
(क) उद्याने पक्षिणां कलरवः चेतः प्रसादयति।
(ख) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
(ग) सुराधिपः ताम् अपृच्छत्।
(घ) सः भारवेदनया क्रन्दति स्म।
(ङ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रति प्रियमिच्छन्ति।

प्रश्न: 16.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकयोः अन्वयं पूरयत – (त्रिचतुर्वाक्यानि – अवबोधनात्मकप्रश्नः)

I. व्यायामो कुर्वतो नित्यं विरुद्धमपि भोजनम्।  [2]
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥
अन्वयः-
(i) ———- व्यायाम
(ii) ———– (जनस्य)
(iii)————
अविदग्धं वा विरुद्धं च अपि
(iv) —————– निर्दोषं पच्यते।

II. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।  [2]
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
अन्वयः- आलस्यं हि
(i) ……….. शरीरस्थः
(ii) ………….. रिपुः (अस्ति)।
(iii)…………. बन्धुः न अस्ति यं
(iv)…………. (मानवः) न अवसीदति ।

मञ्जूषा – विदग्धम्, भोजनम्, कृत्वा, उद्यमसमः, नित्यम्, मनुष्याणाम् , महान्, कुर्वतः। |

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत –  [4]

गुणी गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः, करी च सिंहस्य बलं न मूषकः ॥

भावार्थः –
गुणवान् जनः एव —————- महत्त्वं जानाति । गुणहीनः गुणानां महत्त्वं न अवगच्छति । तथैव ———- जनः बलस्य महत्त्वं जानाति परन्तु दुर्बलः बलस्य महत्त्वं न अवगच्छति । वसन्त-ऋतोः महत्त्वं कोकिलः एव सम्यग् ————–शक्नोति न तु काकः । एवमेव गजः सिंहस्य ——–महत्त्वं जानाति । मूषकः तस्य शौर्यम् अवगन्तुं न शक्नोति ।

मञ्जूषा – अवगन्तुम्, बलवान्, पराक्रमस्य, गुणानाम्

प्रश्न: 17.
अधोलिखित-कथांशं समुचित-क्रमेण लिखत – (स्मृत्यात्मकः प्रश्नः)  [4]
1. व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
2. प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
3. जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
4. मार्गे सा एकं व्याघ्रम् अपश्यत्।
5. व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच – अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
6. बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
7. ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान् ।
8. गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।

प्रश्न: 18.
‘क’ स्तम्भे लिखितानां पदानां पर्यायपदानि ‘ख’ स्तम्भे लिखितानि सन्ति। तानि यथासमक्षं लिखत-   [3]
(केवलं प्रश्नत्रयम्) (एकपदात्मकम् – स्मृत्यात्मकप्रश्नः)

क                           ख

हिमकरः                 शिवः
सम्प्रति                   शशिः
तनयः                    अधुना
पशुपतिः                  पुत्रः

अथवा

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत – (केवलं प्रश्नत्रयम्)  [3]

1. एकान्ते कान्तारे क्षणमपि सञ्चरणं स्यात् ।
(क) वने
(ख) जने
(ग) गहने

2. दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा
(क) ऋजता
(ख) स्वच्छता
(ग) मृग्या

3. वयसस्तु किञ्चिदन्तरम् ।
(क) वायसः
(ख) वयस्यः
(ग) आयुषः

4. यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।
(क) बहूनि
(ख) प्रभावपूर्णानि
(ग) पञ्चभूतानि

Leave a Comment